समुदोरजः पशुषु

3-3-69 समुदोः अजः पशुषु प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् भावे अकर्तरि च कारके सञ्ज्ञायाम् अप्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

समुदोरुपपदयोरजतेर्धातोः पशुविषये धात्वर्थेऽप् प्रत्ययो भवति। घञोऽपवादः। <<अज गतिक्षेपणयोः>> इति पठ्यते। स संपूर्वः समुदाये वर्तते, उत्पूर्वश्च प्रेरणे। समजः पशूनाम्। समुदाय इत्यर्थः। उदजः पशूनाम्। प्रेरणमित्यर्थः। पशुष्विति किम्? समाजो ब्राह्मणानाम्। उदाजः क्षत्रियाणाम्॥

Siddhanta Kaumudi

Up

संपूर्वोऽजिः समुदाये उत्पूर्वञ्च प्रेरणे तस्मात्पशुविषयकादप् स्यात् । अघञपोरित्युक्तेर्वीभावो न । समजः पशूनां सङ्घः । उदजः पशूनां प्रेरणम् । पशुषु किम् । समाजो ब्राह्मणानाम् । उदजः क्षत्रियाणाम् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up