किंवृत्ते लिप्सायाम्

3-3-6 किंवृत्ते लिप्सायाम् प्रत्ययः परः च आद्युदात्तः च धातोः कृत् भविष्यति लट् विभाषा

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

विभाषेति वर्तते। किमो वृत्तं किंवृत्तम्। वृत्तग्रहणेन तद् विभक्त्यन्तं प्रतीयात्, डतरडतमौ चेति परिसंख्यानं स्मर्यते। किंवृत्त उपपदे लिप्सायां भविष्यति काले धातोर्विभाषा लट् प्रत्ययो भवति। लिप्सा, लब्धुमिच्छा प्रार्थनाभिलाषः। कं भवन्तो भोजयन्ति? कं भवन्तो भोजयितारः? लब्धुकामः पृच्छति — कतरो भिक्षां दास्यति, ददाति, दाता वा? कतमो भिक्षां दास्यति, ददाति, दाता वा? लिप्सायामिति किम्? कः पाटलिपुत्रं गमिष्यति॥

Siddhanta Kaumudi

Up

भविष्यति लड्वा स्यात् । कं कतरं कतमं वा भोजयसि भोजयिष्यसि भोजयितासि वा । लिप्सायां किम् । कः पाटलिपुत्रं गमिष्यति ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<किंवृत्ते लिप्सायाम्>> - किंवृत्ते लिप्सायां । किंशब्देन वृत्तं निष्पन्नं किंवृत्तमित्यभिप्रेत्य आह — विभक्त्यन्तमिति लड्वेति । लडभावे तु लुट्लृटौ यथाप्राप्तम् । किंवृत्तशब्देन विभक्त्यन्तडतरडतमान्तानामेव ग्रहणमिति युक्तम् । कं कतरं कतमं वेति ।क्षुधितमन्नलिप्स॑मिति शेषः ।

Padamanjari

Up

किमो वृतं किवृतमिति । वर्ततेऽस्मिन्निति वृतम्,'क्तो' धिकरणे चऽ इत्यधिकरणे क्तः । अस्मादेव निपातनाद् ठधिकरणवाचिंना चऽ इति षष्ठीसमासप्रतिषेधाभाव, शेषषष्ठ।ल वा समासः । यत्र किंशब्दोऽवयवत्वेन वर्तते तत्सर्वं किंवृतम् । ततश्च कीदृशः, किमीयः, किन्तरामित्यादावतिप्रसङ्गात्परिगणनम् । वृतग्रहणेनेति । तदिति शब्दरूपापेक्षं नपुंसकत्वम् । डतरडतमौचेति । डतरडतमान्तं किंशब्दरूपमित्यर्थः । कं भवन्तो र्भोजयितार इति । अस्यापि ठनद्यतने लुट्ऽ इत्यत्रानुवृत्तिरिति भावः । एवमुतरेष्वपि योगेषु द्रष्टव्यम् ॥