3-3-68 प्रमदसंमदौ हर्षे प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् भावे अकर्तरि च कारके सञ्ज्ञायाम् अप्
प्रमद संमद इत्येतौ शब्दौ निपात्येते हर्षेऽभिधेये। कन्यानां प्रमदः। कोकिलानां संमदः। हर्ष इति किम्? प्रमादः। संमादः। प्रसंभ्यामिति नोक्तम्। निपातनं रूढ्यर्थम्॥
हर्षे किम् । प्रमादः । संमादः ॥
निपातनं रूढ।ल्र्थमिति । उपातस्यैव रूढिरूपस्य साधुत्वं यथा स्यादित्यर्थः ।'प्रसंभ्याम्' इत्युच्यमाने प्रसंमदः, संप्रमदः, विप्रमद इत्यादावपि प्राप्नोतीति मन्यते ॥