3-3-67 मदः अनुपसर्गे प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् भावे अकर्तरि च कारके सञ्ज्ञायाम् अप्
index: 3.3.67 sutra: मदोऽनुपसर्गे
मदेः धातोः अनुपसर्गादप् प्रत्ययो भवति। घजोऽपवादः। विद्यामदः। धनमदः। कुलमदः। अनुपसर्गे इति किम्? उन्मादः। प्रमादः।
index: 3.3.67 sutra: मदोऽनुपसर्गे
धनमदः । उपसर्गे तु । उन्मादः ॥
index: 3.3.67 sutra: मदोऽनुपसर्गे
विद्यामद इत्यादि ।'कर्तृकरणे' इत्यादिना समासः ।'क्वणो वीणायां च' इत्यस्यानन्तरं'नित्यं मदः प्रमदसंमदौ हर्षे पणः परिमाणे' इति यदि सूत्रन्यासः क्रियेत, अत्रानुपसर्गग्रहणं शक्यमकर्तुम्, अनुवृतेरेव सिद्धत्वात् ? सत्यम्; एवं विन्यासे हि क्रियमाणे'पणः परिमाणे' इत्यत्राप्यनुपसर्ग इत्यस्यानुवृत्तिः शङ्क्येत । यथान्यासे तूतरत्राप्यनुपसर्ग इति वचनात्'नित्यं पणः परिमाणे' इत्यत्रानुपसर्ग इति न संबद्ध्यत इति विज्ञायते । तेनोपसर्गेऽपि भवति यदि परिमाणाभिधानमस्ति । अपर आह - 'मदोऽनुपसर्गेऽ इति सूत्रप्रणयनमस्य विधेरनित्यत्वज्ञापनार्थम्, तेन माद इति सिद्धं भवति' इति, नात्राप्तभाषितमस्ति ॥