क्वणो वीणायां च

3-3-65 क्वणः वीणायां च प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् भावे अकर्तरि च कारके सञ्ज्ञायाम् अप् उपसर्गे वा नौ

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

नौ वानुपसर्ग इति वर्तते। क्वणतेर्धातोर्निपूर्वादनुपसर्गाच्च वीणायां वाप् प्रत्ययो भवति। घञोऽपवादः। सोपसर्गार्थं वीणाया ग्रहणम्। निक्वणः, निक्वाणः। अनुपसर्गात् — क्वणः, क्वाणः। वीणायां खल्वपि — कल्याणप्रक्वणा वीणा। एतेष्विति किम्? अतिक्वाणो वर्तते॥

Siddhanta Kaumudi

Up

नावनुपसर्गे च वीणाविषयाच्च क्वणतेरप् वा स्यात् । वीणाग्रहणं प्राद्यर्थम् । निक्वणः । निक्वाणः । क्वणः । क्वाणः । वीणायां तु । प्रक्वणः । प्रक्वाणः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

सोपसर्गार्थमिदं वीणाग्रहणमिति । निव्यतिरिक्तोपसर्गार्थमिदं द्रष्टव्यम्; निपूर्वादनुपसर्गाच्च सामान्येन विधानात् । कल्याणप्रक्वाणेति बहुव्रीहिः ॥