3-3-62 स्वनहसोः वा प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् भावे अकर्तरि च कारके सञ्ज्ञायाम् अप् उपसर्गे
अनुपसर्ग इत्येव। स्वनहसोरनुपसर्गयोर्वा अप् प्रत्ययो भवति। स्वनः, स्वानः। हसः, हासः। अनुपसर्ग इति किम्? प्रस्वानः। प्रहासः॥
अप् । पक्षे घञ् । स्वनः । स्वानः । हसः । हासः । अनुपसर्गे इत्येव । प्रस्वानः । प्रहासः ॥