विभाषा कदाकर्ह्योः

3-3-5 विभाषा कदाकर्ह्योः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् भविष्यति लट्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

कदा कर्हि इत्येतयोरुपपदयोर्विभाषा भविष्यति काले धातोर्लट् प्रत्ययो भवति। कदा भुङ्क्ते, कदा भोक्ष्यते, कदा भोक्ता। कर्हि भुङ्क्ते, कर्हि भोक्ष्यते, कर्हि भोक्ता॥

Siddhanta Kaumudi

Up

भविष्यति लड् वा स्यात् । कदा कर्हि वा भुङ्क्ते । भोक्ष्यते । भोक्ता वा ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<विभाषा कदाकर्ह्योः>> - विभाषा कदाकर्ह्योः ।भविष्यति लड्वा स्या॑दिति शेषपूरणम् । लडभावपक्षे लुटलृटौ यथाप्राप्तम् । तदाह — कदा कर्हि वा भुङ्क्ते भोक्ष्यते भोक्ता वेति । न च कर्हियोगे लडभावपक्षे लुडेवोचितो, नतु लृट् ।अनद्यतने र्हिलन्यतरस्या॑मिति र्हिलन्तकर्हियोगविरोधादिति वाच्यं, लृडुदाहरणस्य कदायोगमात्रविषयत्वादिहुः ।

Padamanjari

Up

ठनद्यतने लुट्ऽ इत्यत्राप्ययं योगोऽनुवर्तनीयः, तेन लुड्विषयेऽपि पक्षे लड् भवति । अत एव पक्षे लुडप्युदाहृतः । एतच्च पूर्वयोगेऽपि द्रष्टव्यम् । कहिं भोक्ष्यते इति । ननु च कर्हिशब्दोऽनद्यतनविषयः, तत्प्रयोगे लुडेव भवितुमर्हति, न लृट्; न वा वाक्यर्थत्वात् । भोक्ष्यत इति पदं भविष्यत्सामान्ये वर्तते, अनद्यतनावगतिस्तु कर्हि-शब्दाधीना । न च वाक्यार्थः पदसंस्कार उपयुज्यते ॥