3-3-59 उपसर्गे अदः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् भावे अकर्तरि च कारके सञ्ज्ञायाम् अप्
अबित्येव। उपसर्ग उपपदेऽदेर्धातोरप् प्रत्ययो भवति। विघसः। प्रघसः। उपसर्ग इति किम्? घासः॥
अप् स्यात् ॥
अदेर्धातोरिति । दारूपाणां धातूनामयं निर्देशो न भवति;'घञपोश्च' इत्यपि परतोऽदेर्घस्लादेशविधानात् । व्यद्यत इति विघसःउ वैश्वदेवशिष्टमन्नम् । घासस्तु चतुष्पदां भक्ष्यम् । घसिः प्रकृत्यन्तमस्ति तस्मादेवाब्विधेयः । एवं ह्यदेरपि घस्लृभावो न वक्तव्यो भवति । उतरार्थं त्वदेर्ग्रहणम् - नौ ण'च' अदेर्यथा स्याद्, घसेर्मा भूदिति ॥