ग्रहवृदृनिश्चिगमश्च

3-3-58 ग्रहवृदृनिश्चिगमः च प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् भावे अकर्तरि च कारके सञ्ज्ञायाम् अप्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

ग्रहादिभ्यो धातुभ्योऽप् प्रत्ययो भवति। घञोऽपवादः। निश्चिनोतेस्त्वचोऽपवादः। ग्रहः। वरः। दरः। नि॒श्चयः॑। गमः। निश्चिग्रहणं स्वरार्थम्॥ वशिरण्योरुपसंख्यानम्॥ वशः। रणः॥ घञर्थे कविधानं स्थास्नापाव्यधिहनियुध्यर्थम्॥ प्रतिष्ठन्तेऽस्मिन्निति प्रस्थः पर्वतस्य। प्रस्नात्यस्मिन् प्रस्नः। प्रपिबन्त्यस्यामिति प्रपा। आविध्यन्ति तेनेत्याविधः। विहन्यन्तेऽस्मिन्निति विघ्नः। आयुध्यतेऽनेनेत्यायुधम्॥

Siddhanta Kaumudi

Up

अप् स्यात् । घञचोरपवादः । ग्रहः । वरः । दरः । निश्चयः । गमः ॥<!वशिरण्योरुपसङ्ख्यानम् !> (वार्तिकम्) ॥ वशः । रणः ॥<!घञर्थे कविधानम् !> (वार्तिकम्) ॥ प्रस्थः । विघ्नः ॥<!द्वित्वप्रकरणे के कृञादीनामिति वक्तव्यम् !> (वार्तिकम्) ॥ चक्रम् । चिक्लिदम् । चक्नसः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

निश्चिनोतेस्त्वचोपवाद इति । ठेरच्ऽ इति प्राप्तस्य यस्तु'हस्तादाने चेरस्तेये' इति घञ् स निपूर्वादपि पूर्वविप्रतिषेधेनेष्यते, यथोक्तम् - अस्तेयार्थमिति चेन्नानिष्टत्वादिति । कः पुनर्निश्चय इत्यत्राजपोर्विशेषः, यावता तदेव रूपं स एव स्वरोऽपि; थाथादिसूत्रेणोभयत्रान्तोदातत्वविधानादित्यत आह - निश्चिग्रहणं स्वरार्थमिति । निश्चिग्रहणसामर्थ्यात् थाथादिस्वरोऽत्र न प्रवर्तते, कृत्स्वरेण तु मध्योदातत्वमेव भवतीति भावः । वशिरण्योरिति । घञि प्राप्ते वचनम् । वशनं वशः । रणन्ति शब्दायन्तेऽस्मिन्निति रणः संग्रामः । धञर्थ इति । भावः कर्तृवर्जितं च कारकं घञर्थः । प्रस्थः सानुः, प्रस्नः कटाहः, प्रपा पानीयशाला - सर्वत्र ठातो लोप इटि चऽ इत्याकारलोपः । आविध इति । ग्रहिज्यादिसूत्रेण सम्प्रसारणम् । आयुधशब्दपर्यायोऽयम् ॥