3-3-55 परौ भुवः अवज्ञाने प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् भावे अकर्तरि च कारके सञ्ज्ञायाम् विभाषा
विभाषेत्येव। परिशब्द उपपदे भवतेर्धातोर्विभाषा घञ् प्रत्ययो भवत्यवज्ञाने गम्यमाने। अवज्ञानमसत्कारः। परिभावः, परिभवः। अवज्ञान इति किम्? सर्वतो भवनं परिभवः॥
परिभावः । परिभवः । अवज्ञाने किम् । सर्वतो भवनं परिभवः ॥