3-3-54 वृणोतेः आच्छादने प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् भावे अकर्तरि च कारके सञ्ज्ञायाम् विभाषा प्रे
विभाषा प्र इति वर्तते। प्रशब्द उपपदे वृणोतेर्धातोर्विभाषा घञ् प्रत्ययो भवति, प्रत्ययान्तेन चेदाच्छादनविशेष उच्यते। प्रावारः, प्रवरः। आच्छादन इति किम्? प्रवरा गौः॥
विभाषा प्र इत्येव । प्रावारः । प्रवरः ॥
अत्राप्याच्छादन इति सामान्येनोक्तावपि पूर्ववद्विशेषप्रतिपतिरित्याह - प्रत्ययान्तेन चेदिति । प्रावार इति । पूर्ववद्दीर्घः । प्रवरा गौरिति । प्रशस्तेत्यर्थः ॥