रश्मौ च

3-3-53 रश्मौ च प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् भावे अकर्तरि च कारके सञ्ज्ञायाम् विभाषा ग्रहः प्रे

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

ग्रहो विभाषा प्र इति वर्तते। प्रशब्द उपपदे ग्रहेर्धातोर्विभाषा घञ् प्रत्ययो भवति, रश्मिश्चेत् प्रत्ययान्तेनाभिधीयते। रथादियुक्तानामश्वादीनां संयमनार्था रज्जू रश्मिरिह गृह्यते। प्रग्राहः, प्रग्रहः॥

Siddhanta Kaumudi

Up

प्रग्रहः । प्रग्राहः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

रथादियुक्तानामिति । आदिशब्देन शकटस्य ग्रहणम् । अश्वादेरिति । अनुडुदादेरप्युपलक्षणमेतत् । संयमनमुनियमनम् । सा रश्मिरिह गृह्यत इति । रश्मिशब्दः पुंल्लिङ्गः, सेति रज्जुपरामर्शात्स्त्रीलिङ्गता । चन्द्रादिसम्बन्धिनां तु रश्मीनामग्रहणम्; अनभिधानात् । इह तु बहुकृत्वो ग्रहिरुपादीयते, सकृदेव तु कर्तुं शक्यम्; कथम् ? एवं वक्ष्यामि ठुदि ग्रहः समि मुष्टौ आक्रोशेऽवन्यो प्रे लिप्सायां परौ यज्ञेऽवे वर्षप्रतिबन्धे विभाषा प्रे वणिजाम्ऽ इत्यादि,'परौ भुवो' वज्ञानेऽ इत्यस्यानन्तरमाङ् रुप्लुवोइरिति ? तथा तु न कृतमित्येव ॥