3-3-52 प्रे वणिजाम् प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् भावे अकर्तरि च कारके सञ्ज्ञायाम् विभाषा ग्रहः
ग्रह इति वर्तते। विभाषेत्येव। प्रशब्द उपपदे ग्रहेर्धातोर्विभाषा घञ् प्रत्ययो भवति, प्रत्ययान्तवाच्यश्चेद् वणिजां संबन्धी भवति। वणिक्संबन्धेन च तुलासूत्रं लक्ष्यते, न तु वणिजस्तन्त्रम्। तुला प्रगृह्यते येन सूत्रेण स शब्दार्थः। तुलाप्रग्राहेण चरति, तुलाप्रग्रहेण चरति वणिगन्यो वा। वणिजामिति किम्? प्रग्रहो देवदत्तस्य॥
प्रे ग्रहेर्घञ् वा वणिजां सम्बन्धी चेत्प्रत्ययार्थः । तुलासूत्रमिति यावत् । तुलाप्रग्राहेण चरति । तुलाप्रग्रहेण वा ॥
पणन्ते व्यवहरन्तीति वणिजः,'पणेरिज्यादेश्च वः' ,'पण व्यवहारे' इत्यस्मादिजिप्रत्ययो भवत्यादेश्च वकारः । वणिक्सम्बन्धेनेति । तुलासूत्रं प्रायेण वणिजां भवतीति साहचर्यं लक्षणाहेतुः । अनयो वेति । न तु वणिजस्तन्त्रमित्यस्येदं प्रयोजनम् ॥