अवे ग्रहो वर्षप्रतिबन्धे

3-3-51 अवे ग्रहः वर्षप्रतिबन्धे प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् भावे अकर्तरि च कारके सञ्ज्ञायाम् विभाषा

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

विभाषेति वर्तते। अव उपपदे ग्रहेर्धातोर्घञ् प्रत्ययो भवति विभाषा वर्षप्रतिबन्धेऽभिधेये। प्राप्तकालस्य वर्षस्य कुतश्चिन्निमित्तादभावो वर्षप्रतिबन्धः। अवग्राहो देवस्य, अवग्रहो देवस्य। वर्षप्रतिबन्ध इति किम्? अवग्रहः पदस्य॥

Siddhanta Kaumudi

Up

विभाषेति वर्तते । अवग्रहः । अवग्राहः । वर्षप्रतिबन्धे किम् । अवग्रहः पदस्य ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

कुतश्चिन्निमितादिति ।'सत्वकर्मापराधादेरनावृष्टिर्भवेन्नृणाम्' । सत्वशब्दः प्राणिवचनः, कर्मापराधःउकर्मविषयो दोषः, विहितानाचरणप्रतिषिद्धाचरणनिमितं पापं सत्वकर्मापराधः । आदिशब्देन'तयोर्मध्यगतो भानुः समुद्रमपि शोषयेत्' इत्यादेर्ग्रहणम् । अवग्राहो देवस्येति । देवकर्तृको वर्षाभाव इत्यर्थः ॥