नौ वृ धान्ये

3-3-48 नौ वृ धान्ये प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् भावे अकर्तरि च कारके सञ्ज्ञायाम्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

वृ इति वृङ्वृञोः सामान्येन ग्रहणम्। निशब्द उपपदे वृ इत्येतस्माद् धातोर्धान्यविशेषेऽभिधेये घञ् प्रत्ययो भवति। अपोऽपवादः। नीवारा नाम व्रीहयो भवन्ति। धान्य इति किम्? निवरा कन्या॥

Siddhanta Kaumudi

Up

वृ इति लुप्त पञ्चमीकम् । नीवाराः । धान्ये किम् । निवरा कन्या । क्तिन्विषयेऽपि बाहुलकादप् । प्रवरा गौरितिवत् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

नीवारा नाम व्रीहय इति । धान्यसामान्योक्तावपि धान्यविशेषरूपव्रीहिविशेषे स्वभावतो घञन्तस्य वृत्तिरिति दर्शयति । अत्र कर्मणि घञ्, पूर्ववदुपसर्गस्य दीर्घः । निवरा कन्येति ।'ग्रहवृदृनिश्चिगमश्च' इत्यप् कर्मण्येव । ननु च क्तिना स्त्रियां भवितव्यम्, ठजब्भ्यां स्त्रीखलनाः स्त्रियाः खलनौ विप्रतिषेधेनऽ इति वचनात् ? सत्यम्;'कृत्यल्युटो बहुलम्' इति बहुलवचनात् क्वचित् क्तिनादिविषयेऽप्यच् भवति, प्रवरा सेना, प्रवरा गौरितिवत् । एवं च'घञजबन्ताः पुंसि' इति प्रायिकं द्रष्टव्यम् ॥