3-3-47 परौ यज्ञे प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् भावे अकर्तरि च कारके सञ्ज्ञायाम् ग्रहः
परिशब्द उपपदे ग्रहेर्घञ् प्रत्ययो भवति, यज्ञविषयश्चेत् प्रत्ययान्ताभिधेयः स्यात्। उत्तरपरिग्राहः। यज्ञ इति किम्? परिग्रहो देवदत्तस्य॥
उत्तरः परिग्राहः । स्फ्येन वेदेः स्वीकरणम् ॥
उतरपरिग्राह इति । भावे घञ् । वेदेः स्फ्येन स्वीकरणं परिग्राहः, ततः कर्मधारयः । क्वचिदुतरः परिग्राह इत्यसमास एव पठ।ल्ते ॥