3-3-49 उदि श्रयतियौतिपूद्रुवः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् भावे अकर्तरि च कारके सञ्ज्ञायाम्
उच्छब्द उपपदे श्रयत्यादिभ्यो घञ् प्रत्ययो भवति। अजपोरपवादः। उच्छ्रायः। उद्यावः। उत्पावः। उद्द्रावः। कथं पतनान्ताः समुच्छ्रयाः? वक्ष्यमाणं विभाषाग्रहणमिह सिंहावलोकितन्यायेन संबध्यते॥
उच्छ्रायः । उद्यावः । उत्पावः । उद्रावः । कथं पतनान्ताः समुच्छ्रया इति । बाहुलकात् ॥
वक्ष्यमाणमिति । एवं च यौतिप्रभृतिभ्यो विकल्पः प्राप्नोति । यदि नेष्यते,'कृत्यल्युटो बहुलम्' इति न भविष्यति ॥ अन्ये तु भाष्येऽनुक्तत्वादसाधुरेवायं प्रयोगः । प्रदर्शितस्तु भारतप्रयोग आर्षत्वेन निर्वाह्य इत्याहुः ॥