3-3-46 प्रे लिप्सायाम् प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् भावे अकर्तरि च कारके सञ्ज्ञायाम् ग्रहः
ग्रह इत्येव। प्रशब्द उपपदे ग्रहेर्धातोर्घञ् प्रत्ययो भवति लिप्सायां गम्यमानायाम्। पात्रप्रग्राहेण चरति भिक्षुः पिण्डार्थी। स्रुवप्रग्राहेण चरति द्विजो दक्षिणार्थी। लिप्सायामिति किम्? प्रग्रहो देवदत्तस्य॥
पात्रप्रग्राहेण चरति भिक्षुः ॥
इवर्णान्तादच्। चयः। जयः॥
लब्धुमिच्छा लिप्सा । पात्रप्रग्राहेण चरतीति । भिक्षापात्रोपादानेन गृहीतपात्र इति यावत् । स्रुवग्रहणं तु दक्षिणार्थिनो लिङ्गम्, दाक्षिणहोमस्य स्रुवसाधनत्वात् । प्रग्रहो देवदतस्येति । प्रग्रहो मदः, प्रकृष्टो वाभिनेवेशः ॥