3-3-45 आक्रोशे अवन्योः ग्रहः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् भावे अकर्तरि च कारके सञ्ज्ञायाम्
दृष्टानुवृत्तिसामर्थ्याद् घञनुवर्तते, नानन्तर इनुण्। अव नि इत्येतयोरुपपदयोर्ग्रहेर्धातोर्घञ् प्रत्ययो भवत्याक्रोशे गम्यमाने। आक्रोशः शपनम्। अवग्राहो हन्त ते वृषल भूयात्। निग्राहो हन्त ते वृषल भूयात्। आक्रोश इति किम्? अवग्रहः पदस्य। निग्रहश्चोरस्य॥
अव नि एतयोर्ग्रहेर्घञ् स्यात् शापे । अवग्राहस्ते भूयात् । अभिभव इत्यर्थः । निग्राहस्ते भूयात् । बाध इत्यर्थः । आक्रोशे किम् । अवग्रहः पदस्य । निग्रहश्चोरस्य ॥
'ग्रहवृदृनिश्चिगमश्च' इत्यापि प्राप्तेऽयमारम्भः । दृष्टानुवृत्तिसामर्थ्यादिति । दृष्टमनुवृत्तिसामर्थ्यं यस्येति बहुव्रीहौ'द्व्येकयोः' इतिवद्भावप्रत्ययमन्तरेणापि भावप्रधानो निर्देशो दृष्टानुवृत्तिसामर्थ्यत्वादित्यर्थः । यद्वा - अनुवृतौ सामर्त्यमनुवृत्तिसामर्थ्यम्, ततो दृष्टशब्देन कर्मधारयः । आक्रोशः शपनमिति । न क्षेपः, स्वभावतो घञन्तस्य शपनविषयत्वात् । शपनमुअनिष्टाशंसनम् । अवग्रहःउअभिभवः । निग्रहःउबाधः । हन्तशब्दः कोपं द्योतयति । अवग्रहःउपदस्य छेदः । निग्रहः निरोधः ॥