संघे चानौत्तराधर्ये

3-3-42 सङ्घे च अनौत्ताराधर्ये प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् भावे अकर्तरि च कारके सञ्ज्ञायाम् चेः आदेः च कः

Kashika

Up

index: 3.3.42 sutra: संघे चानौत्तराधर्ये


चेः इत्येव। प्राणिनां समुदायः सङ्घः। स च द्वाभ्यां प्रकाराभ्यां भवति। एकधर्मसमावेशेन, औत्तराधर्येण वा। तत्र औत्तराधर्यपर्युदासादितरो गृह्यते। सङ्घे वाच्ये चिनोतेर्धातोः घञ् प्रत्ययो भवति आदेश्च कः। भिक्षुकनिकायः। ब्राह्मणनिकायः। वैयाकरणनिकायः। अनौत्तराधर्ये इति किम्? सूकरनिचयः। प्राणिविषयत्वात् सङ्घस्य इह न भवति। कृताकृतसमुच्चयः। प्रमाणसमुच्चयः।

Siddhanta Kaumudi

Up

index: 3.3.42 sutra: संघे चानौत्तराधर्ये


चेर्घञ् आदेश्च कः । भिक्षुनिकायः । प्राणिनां समूहः सङ्घः । अनौत्तराधर्ये किम् । सूकरनिचयः । सङ्घे किम् । ज्ञानकर्मसमुच्चयः ॥

Padamanjari

Up

index: 3.3.42 sutra: संघे चानौत्तराधर्ये


प्राणिनां समुदायः सङ्घ इति ।'सङ्गोद्घौ गणप्रशंसयोः' इति गणमात्रे निपातितोऽपि सङ्घशब्दः प्राणिनामेव समुदाये रूढ इति भावः । एकधर्मसमावेशेनेति । एकधर्मोऽनुगतः । औतराधर्येणेति । उतरे चाधरे चोतराधराः, तेषां भाव औतराधर्यम् । सूकरनिचय इति । स्तनपानाय यदोतराधरभावेन शेरते तदेदं प्रत्युदाहरणम्, यदा तु भिक्षुवत्पृथक्पृथगेव तिष्ठन्ति, तदेदमुदाहरणमेव भवति ॥