3-3-41 निवासचितिशरीरोपसमादानेषु आदेः च कः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् भावे अकर्तरि च कारके सञ्ज्ञायाम् चेः
चेरित्येव। निवसन्त्यस्मिन्निति निवासः। चीयतेऽसौ चितिः। पाण्यादिसमुदायः शरीरम्। राशीकरणमुपसमाधानम्। एतेष्वर्थेषु चिनोतेर्घञ् प्रत्ययो भवति, धातोरादेश्च ककार आदेशः। निवासे तावत् — चिखल्लिनिकायः। चितौ — आकायमग्निं चिन्वीत। शरीरे — अनित्यकायः। उपसमाधाने — महान् गोमयनिकायः। एतेष्विति किम्? चयः। इह कस्माद् न भवति — महान् काष्ठनिचयः? बहुत्वमत्र विवक्षितं नोपसमाधानम्॥
एषु चिनोतेर्घञ् आदेश्च ककारः । उपसमाधानं राशीकरणं तच्च धात्वर्थः । अन्ये प्रत्ययार्थस्य कारकस्योपाधिभूताः । निवासे । काशीनिकायः । चितौ । आकायमग्निं चिन्वीत । शरीरे । चीयतेऽस्मिन्नस्थ्यादिकमिति कायः । समूहे । गोमयनिकायः । एषु किम् । चयः । चः क इति वक्तव्ये आदेरित्युक्तिर्यङ्लुक्यादेरेव यथा स्यादिति । गोमयानां निकेचायः । पुनः पुना राशीकरणमित्यर्थः ॥
एषु चिनोतेर्घञ् आदेश्च ककारः। उपसमाधानं राशीकरणम्। निकायः। कायः। गोमयनिकायः॥
एतेष्वर्थेष्विति । अत्रोपसमाधानं धात्वर्थः, अन्ये प्रत्ययार्थस्य कारकस्योपाधिभूताः । चिखल्लिनिकाय इति । चिखल्लिः - जनपदविशेषः, तत्सम्बन्धी ग्रामादिर्निवासदेश इत्यर्थः । आकायमिति । आचीयतेऽस्मिन्नष्टका इत्यधिकरणे घञ् । काय इति । चीयन्तेऽस्मिन्नस्थ्यादीनि, अधिकरण एव घञ् । गोमयनिकाय इति । प्रकीर्णानां गोमयानामेकत्र राशीकरणमित्यर्थः । बहुत्वमत्र गम्यते इति । तत्र तत्र विक्षिप्तानामेव काष्ठानामित्यर्थः ।'चः कः' इति वक्तव्ये आदेरिति वचनं यङ्लुगन्तेऽप्यादेरेक्यथा स्याद्, अनन्त्यस्याभ्यासस्य चोभयोर्मा भूदिति - गोमयानां निकेचायः, गोमयानां पुनः पुना राशीकरणमित्यर्थः ॥