3-3-40 हस्तादाने चेः अस्तेये प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् भावे अकर्तरि च कारके सञ्ज्ञायाम्
index: 3.3.40 sutra: हस्तादाने चेरस्तेये
हस्तादाने गम्यमाने चिनोतेर्धातोः घञ् प्रत्ययो भवति, न चेत् स्तेयं चौर्यं भवति। हस्तादानग्रहणेन प्रत्यासत्तिरादेयस्य लक्ष्यते। पुष्पप्रचायः। फलप्रचायः। हस्तादाने इति किम्? वृक्षशिखरे फलप्रचयं करोति। अस्तेये इति किम्? फलप्रचयश्चौर्येण। उच्चयस्य प्रतिषेधो वक्तव्यः।
index: 3.3.40 sutra: हस्तादाने चेरस्तेये
हस्तादान इत्यनेन प्रत्यासत्तिरादेयस्य लक्ष्यते । पुष्पप्रचायः । हस्तादाने किम् । वृक्षाग्रस्थानां फलानां यष्ट्या प्रचयं करोति । अस्तेये किम् । पुष्पप्रचयश्चौर्येण ॥
index: 3.3.40 sutra: हस्तादाने चेरस्तेये
हस्तादानग्रहणेनेत्यादि । यत्रोपायान्तरनिरपेक्षेण हस्तेनैवादेयमादीयते, तत्रावश्यमादेयस्य ग्राह्यस्य प्रत्यासतिर्भवति, अतः साहचर्यं लक्षणाहेतुः । वृक्षशिखर इति । वृक्षाग्रे यानि फलानि तेषां यष्ट।लदिना प्रचयं करोतीत्यर्थः । यद्वा - आरुह्य हस्तेनादानेऽप्यादेयस्य प्रत्यासत्यभावाद् घञभावः ॥