व्युपयोः शेतेः पर्याये

3-3-39 व्युपयोः शेतेः पर्याये प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् भावे अकर्तरि च कारके सञ्ज्ञायाम्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

वि उप इत्येतयोरुपपदयोः शेतेर्धातोर्घञ् भवति पर्याये गम्यमाने। तव विशायः। मम विशायः। तव राजोपशायः। तव राजानमुपशयितुं पर्याय इत्यर्थः। पर्याय इति किम्? विशयः। उपशयः।

Siddhanta Kaumudi

Up

तव विशायः । तव राजोपशायः । पर्याये किम् । विशयः संशयः । उपशयः समीपशयनम् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

पूर्वसूत्रेणानुपात्यये पर्यायशब्दो व्युत्पादितः, ततश्चानुपात्यय इत्यधिकारेणैव सिद्धे पर्यायग्रहणं पुनर्विधानार्थम् । तेनाभिविधिविवक्षायां परमपीनुणं बाधित्वाऽयमेव घञ् भवति । राजानमुपशयितुं पर्याय इत्यर्थ इति ।'कालसमयवेलासु तुमुन्' इत्यत्र कालेऽत्यर्थग्रहणम् । पर्यायोपादानं तु प्रपञ्चार्थम्, यथा -'निमितकारणहेतुषु सर्वासां प्रायदर्शनम्' इति । तेन पर्यायशब्दयोगेऽपि तुमुन् भवति । तथा चावसरो भोक्तुम्, अवकाशो भोक्तुमित्याद्यपि दृश्यते । विशयःउ संशयः, उपशयःउसमीपशयनम् ॥