भविष्यति गम्यादयः

3-3-3 भविष्यति गम्यादयः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् उणादयः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

भविष्यति काले गम्यादयः शब्दाः साधवो भवन्ति। प्रत्ययस्यैव भविष्यत्कालता विधीयते न प्रकृतेः। गमी ग्रामम्। आगामी। प्रस्थायी। प्रतिरोधी। प्रतिबोधी। प्रतियोधी। प्रतियोगी। प्रतियायी। आयायी। भावी॥ अनद्यतन उपसंख्यानम्॥ श्वो गमी ग्रामम्॥

Siddhanta Kaumudi

Up

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

यथा'स्यदो जवे' इत्युक्ते जवशब्दपर्यायः स्यदशब्दो भवति, तथेहापि भविष्यच्छब्दपर्याया गम्यादयः प्राप्नुवन्तीत्याशङ्क्याह - प्रत्ययस्यैवेत्यादि । प्रकृत्यर्थगता भविष्यत्कालता । प्रत्ययस्यैव द्योत्यत्वेन विधीयते, न पुनः प्रकृत्यर्थपरित्यागेन समुदायस्येत्यर्थः । न प्रकृतेरिति । न प्रकृतेरपीत्यर्थः । गम्यादिषु केचिदुणादयः, केचिदष्टाध्यायीगताः । गमी, आगामीति ।'गमेरिनिः' ठाङ् इणिच्चऽ इतीनिः । भावी, प्रस्थायीति । अस्मिन्नेवाधिकारे'भुवश्च' 'प्रात्स्थः' इतीनिः, णित्वाद् वृद्धिर्युक्च । रुधिबुधियुधियातिभ्यः प्रतिपूर्वेभ्यो प्रहादिनिः । अस्मादेव निपातनादित्यन्ये ।'सुप्यजातौ' इत्यन्ये । प्रतियोगीति । संपृचादिसूत्रेण घिनुणि'चजोः कु घिण्ण्यतोः' इति कुत्वम् । णिनि प्रत्यय एव न्यङ्क्वादिपाठादस्मादेव निपातनाद्वा कुत्वमित्यन्ये । अनद्यतन उपसंख्यानमिति । किं पुनः कारणं न सिद्ध्यति ? लृटायं निर्देशः क्रियते लृ ट् चानद्यतने लुटा बाध्यते, तेन लृट एव विषये एते स्युः । न वा वाक्यार्थत्वाद् गम्यादयः शब्दा विशेषे यत्सामान्यं तदाश्रयेण प्रवतन्ते । अनद्यतनाख्यस्तु विशेषः श्वः शब्दमहिम्ना गम्यते । विशेषविवक्षायां तु लुडेव भवति - श्वो गन्ता ग्राममिति । वासरूपविधिना च लृडपि भवति । तेन भविष्यति, गमिष्यतीत्यादयः प्रयोगा उपपद्यन्ते ॥