3-3-38 परौ अनुपात्यये इणः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् भावे अकर्तरि च कारके सञ्ज्ञायाम्
परिशब्द उपपद इणो धातोर्घञ् प्रत्ययो भवति, अनुपात्यये गम्यमाने। क्रमप्राप्तस्यानतिपातोऽनुपात्ययः, परिपाटी। तव पर्यायः। मम पर्यायः अनुपात्यय इति किम्? कालस्य पर्ययः। अतिपात इत्यर्थः॥
क्रमप्राप्तस्य अनतिपातोऽनुपात्ययः । तव पर्यायः । अनुपात्यये किम् । कालस्य पर्ययः । अतिपात इत्यर्थः ॥
इह द्विः परिग्रहणम्, द्विश्चेण्ग्रहणं क्रियते, सकृदेव तु कर्तव्यम्, एवं वक्ष्यामि - परौ नियो द्यौते इणोऽनुपात्यये नावभ्रेष इति ? सत्यम्; तथा तु न कृतमित्येव ॥