परिन्योर्नीणोर्द्यूताभ्रेषयोः

3-3-37 परिन्योः नीणोः द्यूताभ्रेषयोः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् भावे अकर्तरि च कारके सञ्ज्ञायाम्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

परिशब्दे निशब्दे चोपपदे यथासंख्यं निय इणश्च धातोर्घञ् प्रत्ययो भवति। अचोऽपवादः। द्यूताभ्रेषयोः, अत्रापि यथासंख्यमेव संबन्धः। द्यूतविषयश्चेन्नयतेरर्थः, अभ्रेषविषयश्चेदिणर्थः। पदार्थानामनपचारो यथाप्राप्तकरणमभ्रेषः। द्यूते तावत् — परिणायेन शारान् हन्ति। समन्तान्नयनेन। अभ्रेषे — एषोऽत्र न्यायः। द्यूताभ्रेषयोरिति किम्? परिणयः। न्ययं गतः पापः॥

Siddhanta Kaumudi

Up

परिपूर्वान्नयतेर्निपूर्वादिणश्च घञ् स्यात् क्रमेण द्यूतेऽभ्रेषे च विषये । परिणायेन शारान् हन्ति । समन्तान्नयनेनेत्यर्थः । एषोऽत्र न्यायः । उचितमित्यर्थः । द्यूताभ्रेषयोः किम् । परिणयो विवाहः । न्ययो नाशः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

अक्षादिभिः क्रीडनं द्यौउतम् ।'भ्रेप चलने' भ्रेषणं भ्रेषःउचलनम् । अभ्रेषःउअचलनम् । भ्रेषविषयश्चेदिति । अयमपि ग्रन्थः पूर्वानुसारेण योज्यः । अनपचार इति । कुत्सितश्चारोऽपचारः, तस्मादन्यः प्रशस्तः चारोऽनपचारः । एतदेवस्पष्टयति - यथाप्राप्तस्येति । यथा येन प्रकारेण प्राप्तिर्यस्येति बहुव्रीहिः । अव्ययीभावे त्वम्भावः प्राप्नोति । क्वचितु यथाप्राप्तकरणमिति पठ।ल्ते । परिणायेनेति । ठुपसर्गादसमासेऽपिऽ इति णत्वम् । हन्तीति बाधते । समन्तान्नयनेनेति । परिणायेनेत्यस्येदमर्थकथनम् । एषोऽत्र न्याय इति । एतदत्र यथाप्राप्तमित्यर्थः । परिणयःउविवाहः । न्ययःउनाशः ॥