समि मुष्टौ

3-3-36 समि मुष्टौ प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् भावे अकर्तरि च कारके सञ्ज्ञायाम् ग्रहः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

ग्रह इत्येव। सम्युपपदे ग्रहेर्धातोर्घञ् भवति मुष्टिविषयश्चेद् धात्वर्थो भवति। मुष्टिरङ्गुलिसंनिवेशः। अहो मल्लस्य संग्राहः। अहो मुष्टिकस्य संग्राहः। दृढमुष्टिताख्यायते। मुष्टाविति किम्? संग्रहो धान्यस्य॥

Siddhanta Kaumudi

Up

मल्लस्य सङ्ग्राहः । मुष्टौ किम् । द्रव्यस्य सङ्ग्रहः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

मुष्टिविषयश्चेद्धात्वर्थो भवतीति ।'कृ धान्ये' इत्यत्र धान्यविषयश्चेद्धात्वर्थो भवतीति एतदनुसारेणायं ग्रन्थो योज्यः । मुष्टिशब्दोऽयमस्त्येव परिमाणे - चतुरो मुष्टीन्निर्वपतीति, अङ्गुलीनां रचनाविशेषवचनोऽप्यस्ति - मुष्टिना हन्तीति; तत्र पूर्वस्य ग्रहणे परिमाणाख्यायामित्येव सिद्धत्वाद् द्वितीयस्य ग्रहणमित्याह - मुष्टिरङ्गुलिसन्निवेश इति । अहोशब्द आश्चर्ये । मुष्टौ कुशलो मुष्टिकः, आकर्षादिपाठात्कन्॥