उदि ग्रहः

3-3-35 उदि ग्रहः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् भावे अकर्तरि च कारके सञ्ज्ञायाम्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

उदि उपपदे ग्रहेर्धातोर्घञ् प्रत्ययो भवति। अपोऽपवादः। उद्ग्राहः॥ छन्दसि निपूर्वादपीष्यते स्रुगुद्यमननिपातनयोः॥ हकारस्य भकारः। उ॒द्ग्रा॒भं च॑ निग्रा॒भं॑ च॒ ब्रह्म॑ दे॒वा अ॑वीवृधन् (मा०सं० १७.६४)॥

Siddhanta Kaumudi

Up

उद्ग्राहः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

अपवाद इति ।'ग्रहवृदृनिश्चिगमश्च' इति प्राप्तस्य । च्छन्दसि नीत्यादि । अवयवसन्निवेशविशिष्टा यज्ञपात्रविशेषाः स्रुचः । इह तु जुहूपभृतोर्ग्रहणम्; ठुद्ग्राभं चेति जुहूमुद्यच्छति निग्राभं चेत्युपभृतं नियच्छतिऽ इति वचनात् ।'हृग्रहोर्भश्च्छन्दसि' इति भत्वम् ॥