3-3-34 छन्दोनाम्नि च प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् भावे अकर्तरि च कारके सञ्ज्ञायाम् स्त्रः वौ
index: 3.3.34 sutra: छन्दोनाम्नि च
वौ स्त्रः इति वर्तते। विपूर्वात् स्तृणातेः छन्दोनाम्नि घञ् प्रत्ययो भवति। वृत्तमत्र छन्दो गृह्यते यस्य गायत्र्यादयो विशेषाः, न मन्त्रब्राह्मणम् , नामग्रहणात्। विष्टारपङ्क्तिः छन्दः। विष्टारबृहती छन्दः। विष्टारपङ्क्तिशब्दोऽत्र छन्दोनाम, न घञनतं शब्दरूपम्। तत्र त्ववयवत्वेन तद् वर्तते। छन्दोनाम्नि इत्यधिकरणसप्तम्येषा।
index: 3.3.34 sutra: छन्दोनाम्नि च
स्त्र इत्यनुवर्तते । विष्टारपङ्क्तिश्छन्दः । विस्तीर्यन्तेऽस्मिन्नक्षराणीत्यधिकरणे घञ् । ततः कर्मधारयः ॥
index: 3.3.34 sutra: छन्दोनाम्नि च
अक्षराणामियताविशिष्टो विन्यासविशेषोःउवृतम् । यस्य गायत्र्यादय इति । प्रसदिद्धत्वादेवमुक्तम् । न मन्त्रब्राह्मणमिति ।'बहुलं च्छन्दसि' इत्यादौ यद्यपि तेषामेव ग्रहणं प्रसिद्धं तथापीह तेषां ग्रहणं न भवति, कुतः ? इत्याह - नामग्रहणादिति । विष्टारपङ्क्तिरिति । विस्तीर्यन्तेऽस्मिन्नक्षराणीत्यधिकरणे घञ्, ततः कर्मधारयः,'च्छन्दोनाम्नि च' इति षत्वम् । यद्यप्यत्र प्रथनं गम्यते, तथापि शब्दविषयत्वात्पूर्वेण न सिध्यति । केचितु'वौ' इति नानुवर्तयन्ति, तेन प्रस्तारपङ्क्तिः, आस्तारपङ्क्तिः, संस्तारपङ्क्तिरित्यपि भवतीत्याहुः ।'कर्मण्यग्न्याख्यायाम्' इत्यादौ यथा प्रत्यययान्तश्चेदाख्या भवतीत्ययमर्थो भवति, एवमिहापि प्रत्ययान्तश्चेच्छन्दोनाम भवतीत्यर्थः स्याद् ? इति शङ्कमानं प्रत्याह - विष्टारपङ्क्तिशब्दोऽत्र च्छन्दोनामेति । अवयवत्वेन वर्तत इति । घञन्तशब्दरूपमित्यनुषङ्गः । क्वचितु तद्वर्तत इति तच्छब्दः पठ।ल्ते, तत्र नानुषङ्गः । कथं तर्हि च्छन्दोनाम्नीत्यस्य निर्वाहः ? इत्याह - च्छन्दोनाम्नीत्याधकरणसप्तम्येषेति । प्रत्ययान्तस्याधिकरणं च्छन्दोनाम, अवयवाश्चावयविनि वर्तन्त इति लौकिका मन्यन्ते, तेन न काचिदनुपपतिरिति भावः ॥