3-3-33 प्रथने वौ अशब्दे प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् भावे अकर्तरि च कारके सञ्ज्ञायाम् स्त्रः
<<स्तृञ् आच्छादने>> अस्माद् धातोर्विशब्द उपपदे घञ् प्रत्ययो भवति प्रथने गम्यमाने, तच्चेत् प्रथनं शब्दविषयं न भवति। प्रथनं विस्तीर्णता। पटस्य विस्तारः। प्रथन इति किम्? तृणविस्तरः। अशब्द इति किम्? विस्तरो वचसाम्॥
विपूर्वात् स्तृणातेर्घञ् स्यादशब्दविषये प्रथने । पटस्य विस्तारः । प्रथने किम् । तृणविस्तरः । अशब्दे किम् । ग्रन्थविस्तरः ॥
विस्तारःउ तिर्यगायतिः ॥