प्रे स्त्रोऽयज्ञे

3-3-32 प्रे स्त्रः अयज्ञे प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् भावे अकर्तरि च कारके सञ्ज्ञायाम्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

<<स्तृञ् आच्छादने>> अस्माद् धातोः प्रशब्द उपपदे घञ् प्रत्ययो भवति, न चेद् यज्ञविषयः प्रयोगो भवति। शङ्खप्रस्तारः। अयज्ञ इति किम्? बर्हिष्प्रस्तरः॥

Siddhanta Kaumudi

Up

अयज्ञे इति छेदः यज्ञे इति प्रकृतत्वात् । प्रस्तारः । अयज्ञे किम् । बर्हिषः प्रस्तरो मुष्टिविशेषः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

'यज्ञे' इति प्रकृतत्वाद् ठयज्ञेऽ इति पदच्छेदः । शङ्खादिषु प्रस्तारःउविस्तारः । बर्हिष्प्रस्तर इति । प्रस्तरःउमुष्टिविशेषः । बर्हिर्विकारः प्रस्तरो बर्हिष्प्रस्तरः, ठृदोरप्ऽ इत्यप्, ठिदुदुपधस्य चऽ इति षत्वम् ॥