3-3-31 यज्ञे समि स्तुवः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् भावे अकर्तरि च कारके सञ्ज्ञायाम्
यज्ञविषये प्रयोगे संपूर्वात् स्तौतेर्घञ् प्रत्ययो भवति। संस्तावश्छन्दोगानाम्। समेत्य स्तुवन्ति यस्मिन् देशे छन्दोगाः, स देशः संस्ताव इत्युच्यते। यज्ञ इति किम्? संस्तवश्छात्रयोः॥
समेत्य स्तुवन्ति यस्मिन् देशे छन्दोगाः स देशः संस्तावः । यज्ञे किम् । संस्तवः परिचयः ॥
समेत्य स्तुवन्ति यस्मिन्देश इति । अधिकरणे ल्युटोऽपवादो घञिति दर्शयति । संस्तवःउपरिचयः ॥