भूतेऽपि दृश्यन्ते

3-3-2 भूते अपि दृश्यन्ते प्रत्ययः परः च आद्युदात्तः च धातोः कृत् उणादयः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

पूर्वत्र वर्तमानाधिकाराद् भूतार्थमिदं वचनम्। भूते काल उणादयः प्रत्यया दृश्यन्ते। वृत्तमिदं वर्त्म। चरितं तदिति चर्म। भसितं तदिति भस्म। दृशिग्रहणं प्रयोगानुसारार्थम्॥

Siddhanta Kaumudi

Up

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

पूर्वत्र वर्तमानाधैकारादिति । तत्रैव वर्तमानग्रहणं न निवर्तितम्, बाहुल्येन वर्तमाने भवन्ति, क्वचिदेव भूते भवन्तीति किल विवेकप्रदर्शनायेति भावः । उदाहरणेषु'ताभ्यामन्यत्रोणादयः' इति संप्रदानापादानव्यतिरिक्ते कारके मनिन् प्रत्ययः,'नेड्वशि कृति' इतीट्प्रतिषेधः ॥