3-3-28 निरभ्योः पूल्वोः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् भावे अकर्तरि च कारके सञ्ज्ञायाम्
पू इति पूङ्पूञोः सामान्येन ग्रहणम्। <<लूञ् छेदने>>। यथासंख्यमुपसर्गसंबन्धः। निरभिपूर्वयोः पूल्वोर्धात्वोर्घञ् प्रत्ययो भवित। निष्पावः। अभिलावः। निरभ्योरिति किम्? पवः। लवः॥
निष्पूयते शूर्पादिभिरिति निष्पावो धान्यविशेषः । अभिलावः । निरभ्योः किम् । पवः । लवः ॥
निष्पावौकोशी धान्यविशेषः, निष्पूयते शूर्पादिभिरिति कृत्वा ॥