प्रे द्रुस्तुस्रुवः

3-3-27 प्रे द्रुस्तुस्रुवः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् भावे अकर्तरि च कारके सञ्ज्ञायाम्

Kashika

Up

index: 3.3.27 sutra: प्रे द्रुस्तुस्रुवः


प्रशब्दे उपपदे द्रु स्तु स्रु इत्येतेभ्यो धातुभ्यो घञ् प्रत्ययो भवति। प्रद्रावः। प्रस्तावः। प्रस्रावः। प्र इति किम्? द्रवः। स्तवः। स्रवः।

Siddhanta Kaumudi

Up

index: 3.3.27 sutra: प्रे द्रुस्तुस्रुवः


प्रद्रावः । प्रस्तावः । प्रस्रावः । प्रे इति किम् । द्रवः । स्तवः । स्रवः ॥