3-3-26 अवोदोः नियः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् भावे अकर्तरि च कारके सञ्ज्ञायाम्
अव उद् इत्येतयोरुपपदयोर्नयतेर्धातोर्घञ् प्रत्ययो भवति। अवनायः। उन्नायः। कथमुन्नयः पदार्थानाम्? <<कृत्यल्युटो बहुलम्>> ३.३.११३ इत्यज् भविष्यति॥
अवनायः अधो नयनम् । उन्नायः ऊर्ध्वनयनम् । कथमुन्नयः उत्प्रेक्षेति । बाहुलकात् ॥
अधो नयनमवनायः, ऊर्ध्वं नयनमुन्नायः, उन्नयस्तु उत्प्रेक्षा ॥