3-3-23 समि युद्रुदुवः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् भावे अकर्तरि च कारके सञ्ज्ञायाम्
सम्युपपदे यु द्रु दु इत्येतेभ्यो धातुभ्यो घञ् प्रत्ययो भवति। संयावः। संद्रावः। संदावः। समीति किम्? प्रयवः॥
संयूयते मिश्रीक्रियते गुडादिभिरिति संयावः । पिष्टविकारोऽपूपविशेषः । सन्द्रावः । सन्दावः ॥
संयावःउपिष्टविकारोऽपूपविशेषः, सम्पूयते मिश्रीक्रियते गुडजीरकादिभिरिति कृत्वा ॥