3-3-22 उपसर्गे रुवः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् भावे अकर्तरि च कारके सञ्ज्ञायाम्
उपसर्ग उपपदे रौतेर्धातोर्घञ् प्रत्ययो भवति। अपोऽपवादः। संरावः। उपरावः। उपसर्ग इति किम्? रवः॥
घञ् । संरावः । उपसर्गे किम् । रवः ॥