इङश्च

3-3-21 इङः च प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् भावे अकर्तरि च कारके सञ्ज्ञायाम्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

इङो धातोर्घञ् प्रत्ययो भवति। अचोऽपवादः। अध्यायः। उपेत्यास्मादधीत उपाध्यायः॥ अपादाने स्त्रियामुपसंख्यानं तदन्ताच्च वा ङीष्॥ उपाध्याया। उपाध्यायी॥ शृ वायुवर्णनिवृतेषु॥ शारो वायुः। शारो वर्णः। शारो निवृतम्।

गौरिवाकृतनीशारः प्रायेण शिशिरे कृशः॥

Siddhanta Kaumudi

Up

घञ् । अचोऽपवादः । उपेत्य अस्मादधीयते उपाध्यायः ॥<!अपादाने स्त्रियामुपसङ्ख्यानं तदन्ताच्च वा ङीष् !> (वार्तिकम्) ॥ उपाध्याया । उपाध्यायी ॥<!शॄ वायुवर्णनिवृतेषु !> (वार्तिकम्) ॥ शृ इत्यविभक्तिको निर्देशः । शारो वायुः । करणे घञ् । शारो वर्णः । चित्रीकरणमिह धात्वर्थः । निव्रियते आव्रियतेऽनेनेति निवृतमावरणम् । बाहुलकात्करणे क्तः । गौरिवाकृतनीशारः प्रायेण शिशिरे कृशः । अकृतप्रावरण इत्यर्थः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

उपाध्याय इति । उपेत्यस्यादधीयत इति अपादाने घञ् । अध्याय इत्यत्र कर्मणि घञ् । अपादाने स्त्रियामिति ।'घञनुक्रमणमजपोर्विषये' इति वचनात् स्त्रियामप्राप्तो घञ् विधीयते । उपाध्याया, उपाध्यायीति । या स्वयमध्यापयति तस्यामेतद्रूपम् । पुंयोगे तु नित्यमेव ङीष् भवति । अत्र च ठुपाध्यायमातुलाभ्यां वाऽ इति वचनात्पक्षे आनुगागमः - उपाध्यायी, उपाध्यायानी ।'शृवायुवर्णनिवृतेध्विति । शृ' इत्यविभक्तिको निर्देशः । शारो वायुरिति । करणे घञ्। शारो वर्ण इति । चित्रीकरणमत्र धात्वर्थः - चित्रीक्रियतेऽनेनाश्रय इति, अत्रापि करणे घञ् । वर्णान्तरसंपृक्तश्चेद्वर्णः शारः । निव्रियते आव्रियतेऽनेन शरीरमिति निवृतमावरणमुच्यते,'कृत्यल्युटो बहुलम्' इति करणे क्तः । नीशार इति । पूर्ववद्दीर्घः । अकृतनीशार इति । अकृतप्रावरण इत्यर्थः ।'प्रदक्षिणप्रसव्यगामिनां शाराणाम्' इति वार्तिककारप्रयोगादक्षेष्वपि शार इति भवति ॥