3-3-20 परिमाणाख्यायां सर्वेभ्यः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् भावे अकर्तरि च कारके सञ्ज्ञायाम्
index: 3.3.20 sutra: परिमाणाख्यायां सर्वेभ्यः
परिमाणाऽख्यायां गम्यमानायां सर्वेभ्यो धातुभ्यः घञ् प्रत्ययो भवति। एकस्तण्डुलनिश्चायः। द्वौ शूर्पनिष्पावौ। कॄ विक्षेपे द्वौ कारौ। त्रयः काराः। सर्वग्रहणमपोऽपि बाधनार्थम्। पुरस्तादपवादन्यायेन ह्यचम् एव बाधेत, न अपम्। परिमाणाऽख्यायाम् इति किम्? निश्चयः। आख्याग्रहणं रूढिनिरासार्थम्। तेन सङ्ख्याऽपि गृह्यते, न प्रस्थाद्येव। घञनुक्रमणमजपोर्विषये, स्त्रीप्रत्ययास्तु न बाध्यन्ते। एका तिलोच्छ्रित्तिः। द्वे प्रसृती। दारजारौ कर्तरि णिलुक् च। दारयन्तीति दाराः। जरयन्तीति जाराः।
index: 3.3.20 sutra: परिमाणाख्यायां सर्वेभ्यः
घञ् । अजपोर्बाधनार्थमिदम् । एकस्तण्डुलनिचायः । द्वौ शूर्पनिष्पावौ । द्वौ कारौ ।<!दारजारौ कर्तरि णिलुक्च !> (वार्तिकम्) ॥ दारयन्तीति दाराः । जरयन्तीति जाराः ॥
index: 3.3.20 sutra: परिमाणाख्यायां सर्वेभ्यः
परिमाणाख्यायामिति । भावसाधनः परिमाणशब्दः, आख्यानमाख्या उ उक्तिः, परिच्छितेरुक्तौ सत्यामित्यर्थः । कस्य पुनः परिच्छितिः ? प्रत्ययार्थस्य भावस्य कर्तृवजितस्य कारकस्य च । परिमाणाख्यायां गम्यमानायामिति वृतेरप्ययमेवार्थः । तण्डुलनिचाय इति । निचीयते राशीक्रियते इति निचायःउराशिः, तण्डुलानां निचाय इति षष्ठीसमासः । अत्र राश्येकत्वेन परिच्छितिर्गम्यते । अत्रैरचि प्राप्ते घञ् । प्रायेण तु निश्चाय इति पाठः, तत्राप्यर्थः स एव,'ग्रहवृदृनिश्चिगमश्च' इत्यपि प्राप्ते घञ् शूर्पनष्पावाविति । निष्पूयते शोद्ध्यते तुषाद्यपनयनेन यस्तण्डुलादिः । शूर्पेण निष्पावः शूर्पनिष्पाव इति'कर्तृकरणे कृता बहुलम्' इति समासः । अत्र शूर्पसङ्ख्यया परिच्छितिः । यद्यप्यत्र'निरभ्योः पूल्वोः' इति घञ् सिध्यति, तथापि सर्वापवादार्थसर्वग्रहणोपादानादनेनैव घञ् भवितुमर्हतीत्यस्योपन्यासः । काराविति ।'क विक्षेपे' कर्मणि घञ्, विक्षिप्तो धान्यादिःउ कारः, अत्रापि सङ्ख्यया परिच्छितिः । ननु च धातोरिति सामान्याधिकारादन्तरेणापि सर्वग्रहणं धातुमात्राद् घञ् भविष्यति, नार्थः सर्वग्रहणेन ? तत्राह - सर्वग्रहणमिति । किं पुनः कअरणमपो बाधनं यत्नसाध्यमित्यत आह - पुरस्तादिति निश्चय इति । अत्र न केनचिदियता गम्यते । ननु च परिमाणशब्दस्य प्रस्थादिषु रूढत्वात्प्रस्थस्तण्डुलनिश्चाय इत्यादावेव युक्तं भवितुम्, न तु द्वौ शूर्पनिष्पावावित्यत्र ? इत्यत आह - आख्याग्रहणं रूढिनिरासार्थमिति । प्रस्थादिषु जिघृक्षितेषु परिमाण इत्येव वक्तव्यं किमाख्याग्रहणेन ? आख्याग्रहणातु मात्रचो लोपो विज्ञायते परिमाणमात्रस्याख्यायामुक्तौ सत्यामिति । तेन परिमाणशब्दः क्रियाशब्द उपजायते - परिमितिःउपरिमाणम् परिच्छितिरिति, सङ्ख्ययापि परिच्छितिर्भवति । एवञ्चोन्मानादावपि यथाभिधानं घञ् भवति । यदि तर्हि सर्वग्रहणात्परमप्ययं घञमं बाधते, स्त्रीप्रत्ययानपि बाधेत, तत्राह - घञनुक्रमणमजपोर्विषय इति । एतच्च'सर्वेभ्यः' इति पञ्चमीनिर्देशाल्लभ्यते । पञ्चम्यन्तो हि सर्वशब्दो धातुशब्देन समानाधिकरणो भवति, तेन प्रकृत्याश्रय एवापवादो बाध्यते, नार्थाश्रयः । तिलोच्छितिरिति । कर्मणि भावे वा क्तिन् । ऊर्ध्वीकृतो राशिः । णिलुक्चेति । णिलोपे सति तस्य स्थानिवद्भावाद् घञाश्रया वृद्धिर्न स्यादिति लुग्विधीयते, तस्य परनिमितकत्वात्क्विलुगुपधात्वेति प्रतिषेधाद्वा स्थानिवत्वाभावाज्जारशब्दः सिध्यति । जरयन्तीति ।'जनीजृष्क्नसुरञ्जो' मन्ताश्चऽ इति मित्वाद् ह्रस्वत्वम् । जारःउ प्रच्छन्नपतिः ॥