अकर्तरि च कारके संज्ञायाम्

3-3-19 अकर्तरि च कारके सञ्ज्ञायाम् प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् भावे

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

कर्तृवर्जिते कारके संज्ञायां विषये धातोर्घञ् भवति। प्रास्यन्ति तं प्रासः। प्रसीव्यन्ति तं प्रसेवः। आहरन्ति तस्माद् रसमित्याहारः। मधुराहारः। तक्षशिलाहारः। अकर्तरीति किम्? मिषत्यसौ मेषः। संज्ञायामिति किम्? कर्तव्यःकटः। चकारः संज्ञाव्यभिचारार्थः। को भवता दायो दत्तः। को भवता लाभो लब्धः। कारकग्रहणं पर्युदासे न कर्तव्यम्, तत् क्रियते प्रसज्यप्रतिषेधेऽपि समासोऽस्तीति ज्ञापनार्थम्, <<आदेच उपदेशेऽशिति>> ६.१.४५ इति। इत उत्तरं भावे अकर्तरि च कारक इति च द्वयमनुवर्तते॥

Siddhanta Kaumudi

Up

कर्तृभिन्ने कारके घञ् स्यात् ॥

Laghu Siddhanta Kaumudi

Up

कर्तृभिन्ने कारके घञ् स्यात्॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

प्रासःउकुन्तः, प्रसेवःउसूच्या प्रसेवनेन निष्पाद्य आवपनविशेषः । मधुराहार इति । कर्मधारयः, षष्ठीसमासो वा । मेष इति । पचादिषु पाठमनपेक्ष्यैतदुदाहृतम्, तथा च ठिगुपधज्ञाप्रीऽ इत्यत्रोक्तम् - देवसेवमेषादयः पचादिषु द्रष्टव्या इति । न हि पाठे सति द्रष्टव्यत्ववचनमुपपद्यते । अथ वा - प्रत्युदाहरणदिगियं दर्शिता, इदं तु प्रत्युदाहरणम् - बिभर्त्यसौ भर्तेति । चकार इत्यादि । चकारोऽयं भिन्नक्रमः -'संज्ञायां च' इति, तेनासंज्ञायामपि घञ् भवति । यद्येवम्, मा भूत्संज्ञायामिति, मा च भूच्चकारः ठकर्तरि कारकेऽ इत्येवास्तु ? सत्यम्; बाहुल्येन संज्ञायां भवति, क्वचिदेवासंज्ञायामिति सूचयितुं संज्ञाग्रहणं कृतम् । दाय इति । दीयमानं सर्वमुच्यत इति नेयं संज्ञा, एवं लाभ इत्यत्रापि, उभयत्र कर्मणि घञ् । कारकग्रहणमित्यादि । पर्युदासे हि नञिवयुक्तन्यायेन कर्तुरन्यस्मिंस्तत्सदृसे कारक एव प्रतीतिर्भवति, यथा - अब्राह्मण इति क्षत्रियादौ । तस्मात्पर्युदासे कारकग्रहणं न कर्तव्यम् । प्रसज्यप्रतिषेधे तु वाक्यभेदेन संज्ञायां घञ् भवति, कर्तरि तु न भवतीत्येषोऽर्थो भवति । तत्र प्रथमे वाक्येऽर्थनिर्देशाभावाद् ठनिर्दिष्टार्थाः प्रत्ययाः स्वार्थे भवन्तिऽ इति स्वार्थ एव स्यात् । ननु च विहितः स्वार्थे पूर्वेणैव ? नेत्याह; धात्वर्थस्य हि सिद्धताख्ये धर्मे घञादयो भवन्तीत्युक्तम्, इह तु साध्यरूपे शुद्धे प्रकृत्यर्थेस्यात् । ननु च कर्तरि प्रतिषेधसामर्थ्यादनिर्दिष्टार्थोऽपि घञ् धात्वर्थसम्बन्धिनि कारक एव विज्ञास्यते ? नैतदस्ति; असति हि प्रतिषेधे'कर्तरि कृत्' इति वचनान्नायमनिर्दिष्टाथः स्याद् । अतः प्रसज्यप्रतिषेधार्थं काकग्रहणम् । पर्युदासे तु न कर्तव्यम् । यद्येवम्, स एवाश्रयिष्यते, किं कारकग्रहणेन ? तत्राह - तत्क्रियत इति । किं पुनः कारणं प्रसज्यप्रतिषेधे प्रत्यत्नलभ्यः समासः ? असामर्थ्यातत्र हि नञः क्रियया सन्बन्धः, कर्त्रि न भवतीति न कर्तृशब्देन । आदेच उपदेशेऽशितीति । अत्र यदि ठशितिऽ इति पर्युदासः स्यात्, तदा शितोऽन्यत्र तृजादौ प्रत्ययो परत आत्वेन भवितव्यम् । ततश्च सुग्लः, सुम्ल इत्यत्र ठातश्चोपसर्गेऽ इति को न स्यात्, प्राक् प्रत्ययोत्पतेरनाकारान्तत्वात्। प्रतिषेधेत्वनैमितिकमात्वम्, शिति तु प्रतिषेध इति सिद्धमिष्टम् ॥