सृ स्थिरे

3-3-17 सृ स्थिरे प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम्

Kashika

Up

index: 3.3.17 sutra: सृ स्थिरे


सर्तेः धातोः स्थिरे कर्तरि घञ् प्रत्ययो भवति। स्थिरः इति कालान्तरस्थायी पदार्थ उच्यते। स चिरं तिष्ठन् कालान्तरं सरतीति धात्वर्थस्य कर्ता युज्यते। चन्दनसारः। खदिरसारः। स्थिरे इति किम्? सर्ता। सारकः। व्याधिमत्स्यबलेष्विति वक्तव्यम्। अतीसारो व्याधिः। विसारो मत्स्यः। सारो बलम्।

Siddhanta Kaumudi

Up

index: 3.3.17 sutra: सृ स्थिरे


सृ इति लुप्तविभक्तिकम् । सर्तेः स्थिरे कर्तरि घञ् स्यात् । सरति कालान्तरमति सारः ।<!व्याधिमत्स्यबलेषु चेति वाच्यम् !> (वार्तिकम्) ॥ अतीसारो व्याधिः । अन्तर्भावितण्यर्थोऽत्रसरतिः । रुधिराधिकमतिशयेन सारयतीत्यर्थः । विसारो मत्स्यः । सारो बले स्थिरांशे च ॥

Padamanjari

Up

index: 3.3.17 sutra: सृ स्थिरे


'सृ' इत्यविभक्तिको निर्देशः । सर्तेरिति ।'सृ गतौ' , ठृ सृ गतौऽ इति द्वयोरपि ग्रहणम् । स्थिरे कर्तरीति । एतेन स्थिरग्रहणं प्रत्ययार्थस्य कर्तुर्विशेषणं नोपपदमिति दर्शयति । एतच्चार्धर्चादिषु सारशब्दपाठाद्विज्ञायते । ननु स्थिरशब्दस्तिष्ठतेर्गतिनिवृत्तिवाचिन उणादिषु करिच्प्रत्ययान्तो निपातितः, सतिस्तु गतिवचनः, तत्कथं सरणस्य स्थिरकर्ता युज्यते ? इत्याह - स्थिर इति कालान्तरस्थायीत्यादि । यतः कालान्तरगमनं सम्भवति, ततश्च सर्तेर्धातोरर्थस्य कर्ता युज्यत इत्यर्थः । तिष्ठन्निति च हेतौ शतृप्रत्ययः । खदिरसार इति खदिरास्थि, तत् दृढत्वात् स्थिरम् । अतीसारो व्याधिरिति । शरीरान्तरावस्थितं रुधिरादिद्रव्यमतिशयेन सारयतीति कृत्वा । अन्तर्भावितण्यर्थोऽत्र सरतिः । ठुपसर्गस्य घञ्यमनुष्ये बहुलम्ऽ इति दीर्घः । विसारो मत्स्य इति । विविधं सरतीति कृत्वा । सारो बलमिति । सारयति चेष्टयतीति कृत्वा । अत्राप्यन्तर्भावितण्यर्थः । सरतिः । बलवान्हि चेष्टते, सारशब्द उत्कर्षे पुंल्लिङ्गः, न्यायादनपेते नपुंसकलिङ्ग इति च दृश्यते ॥