माङि लुङ्

3-3-175 माङि लुङ् प्रत्ययः परः च आद्युदात्तः च धातोः कृत्

Sampurna sutra

Up

माङि धातोः परः लुङ्-प्रत्ययः

Neelesh Sanskrit Brief

Up

माङ्-अव्ययस्य उपस्थितौ धातोः लुङ्लकारः भवति ।

Neelesh English Brief

Up

In presence of the अव्यय माङ्, लुङ्लकारः is used.

Kashika

Up

माङ्युपपदे धातोर्लुङ् प्रत्ययो भवति। सर्वलकाराणामपवादः। मा कार्षीत्। मा हार्षीत्। कथं मा भवतु तस्य पापम्, मा भविष्यतीति? असाधुरेवायम्। केचिदाहुः — अङिदपरो माशब्दो विद्यते, तस्यायं प्रयोगः॥

Siddhanta Kaumudi

Up

सर्वलकारापवादः ॥

Laghu Siddhanta Kaumudi

Up

सर्वलकारापवादः ॥

Neelesh Sanskrit Detailed

Up

'माङ्' इति किञ्चन अव्ययम् । अस्य समावेशः स्वरादिगणे क्रियते । 'निषेधम्' दर्शयितुमस्य प्रयोगः क्रियते । वर्तमानसूत्रेण अस्य अव्ययस्य प्रयोगे लुङ्लकारस्यैव प्रयोगः भवति । तथा च, लुङ्लकारस्य विषये सामान्यरूपेण यः अडागमः/आडागमः विधीयते, सोऽपि <<न माङ्योगे>> 6.4.74 इत्यनेन माङ्-अव्ययस्य उपस्थितौ न भवति । यथा - मा कार्षीः । मा लेखीत् । मा गमः । ज्ञातव्यम् - 1. माङ्-इत्यत्र ङकारस्य इत्संज्ञा लोपश्च भवति, अतः 'मा' इत्येव दृश्यरूपेण अवशिष्यते । 2. 'मा' इत्येपि अन्यत् एकमव्ययमस्ति, यस्यापि प्रयोगः 'निषेधार्थे' एव भवति । परन्तु अस्मात् अव्ययात् परः कस्यापि लकारस्य प्रयोगः भवितुमर्हति । यथा - मा कुरु । मा लिखतु । मा गच्छ ।

Balamanorama

Up

<<माङि लुङ्>> - माङि लुङ् । माङि प्रयुज्यमाने धातोर्लुङ् स्यादित्यर्थः । ननु लुङित्युदाहृतसूत्रेणैव सिद्धेः किमर्थमिदमित्यत आह — सर्वलकारापवाद इति । मास्त्वित्यादौ तु 'मा' इत्यव्ययान्तरं प्रतिषेधार्थकमित्याहुः । आङ्माङोश्चे॑ति सूत्रभाष्ये तु ङितो माशब्दस्य निर्देशात्प्रमाछन्द इत्यत्र तुङ्न भवतीत्युक्तम् । माशब्दस्याऽव्ययान्तरस्य सत्त्वे तु तदेवोदाह्यियेत । मास्त्क्यत्र तु अस्त्विति विभक्तिप्रतिरूपकमव्ययमित्यन्ये ।

Padamanjari

Up

अत्रोतरशब्द आदिक्यवचनो न दिग्वचनः, तेन पूर्वभूतेऽपि स्मशब्दे भवति, तद्दर्शितम् - स्मशब्दसहित इति ॥ इति श्रीहरदतमिश्रविरचितायां पदमञ्जर्यां तृतीयाध्यायस्य तृतीयः पादः ॥