कृत्याश्च

3-3-171 कृत्याः च प्रत्ययः परः च आद्युदात्तः च धातोः कृत् आवश्यकाधमर्ण्ययोः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

आवश्यकाधमर्ण्ययोरिति वर्तते। कृत्यसंज्ञकाश्च प्रत्यया आवश्यकाधमर्ण्ययोरुपाधिभूतयोर्धातोर्भवन्ति। भवता खल्ववश्यं कटः कर्तव्यः। अवश्यं करणीयः। अवश्यं कार्यः। अवश्यं कृत्यः। आधमर्ण्ये — भवता शतं दातव्यम्। सहस्रं देयम्। किमर्थमिदम्, यावता सामान्येन विहिता अस्मिन्नपि विषये भविष्यन्ति? विशेषविहितेन णिनिना बाध्येरन्। कर्तरि णिनिः, भावकर्मणोः कृत्याः, तत्र कुतो बाधप्रसङ्गः? तत्र केचिदाहुः — भव्यगेयादयः कर्तृवाचिनः कृत्याः, त इहोदाहरणमिति॥

Siddhanta Kaumudi

Up

आवश्यकाधमर्ण्ययोरित्येव । अवश्यं हरिः सेव्यः । शतं देयम् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

भव्यगेयादयः कर्तृवाचकाः कृत्या इति । भव्यगेयादिष्ववयत्वेन स्थिताः कृत्या इत्यर्थः । आदिशब्देन न भव्यगेयादिसूत्रनिर्द्दिष्टानामेव ग्रहणम्, किं तर्हि ? अजर्यरुच्यकुप्यकृष्टपच्याव्यथ्याव्यथ्यादीनामपि ग्रहणम् । योगविभाग उतराथेः ॥