3-3-167 कालसमयवेलासु तुमुन् प्रत्ययः परः च आद्युदात्तः च धातोः कृत्
index: 3.3.167 sutra: कालसमयवेलासु तुमुन्
कालादिषु उपपदेषु धातोः तुमुन् प्रत्ययो भवति। कालो भोक्तुम्। वेला भोक्तुम्। इह कस्मान् न भवति, कालः पचति भूतानि इति? प्रैषादिग्रहणम् इह अभिसम्बध्यते। इह कस्मान् न भवति,कालो भोजनस्य? वासरूपेन ल्युडपि भवति। उक्तम् इदम्, स्त्र्यधिकारात् परत्र वासरूपविधिरनित्यः इति।
index: 3.3.167 sutra: कालसमयवेलासु तुमुन्
पर्यायोपादानमर्थोपलक्षणार्थम् । कालार्थेषूपपदेषु तुमुन् स्यात् । कालः समयो वेला अनेहा वा भोक्तुम् । प्रैषादिग्रहणमिहानुवर्तते । तेनेह न । भूतानि कालः पचतीति वार्ता ॥
index: 3.3.167 sutra: कालसमयवेलासु तुमुन्
कालार्थेषूपपदेषु तुमुन्। कालः समयो वेला वा भोक्तुम्॥
index: 3.3.167 sutra: कालसमयवेलासु तुमुन्
प्रैषादिग्रहणं सम्बद्ध्यते इति । न चेह प्रैषादयो गम्यन्त इति भावः । इह कस्मादिति । कालो भोजनस्येति । तस्माद्भुङ्क्तां भवानिति वाक्यार्थः, तेन गम्यतेऽत्र प्रैष इति प्रश्नः । वासरूपविधिनेति । ननु प्रैषादिषु कृत्यविधानात् स्त्र्यधिकारात्परेण वासरूपविधिरनास्तीति ज्ञापितम् ? तत्राह - उक्तमिति । अनित्यत्वमेव तत्र ज्ञापितं न सर्वथाभाव इत्यर्थः । पर्यायोपादानं पर्यायान्तरविवृत्यर्थम् । अन्ये त्वाहुः - अवसरो भोक्तुमित्यादावपि तुमुन् दृश्यते,'व्युपयोः शेतेः' इत्यत्र राजानमुपशयितुं पर्याय इति प्रयुक्तोवृत्तिकारेण । तस्मादर्थग्रहणार्थं पर्यायोपादानम्, यथा -'निमितकारणहेतुषु' इत्यत्रेति ॥