अधीष्टे च

3-3-166 अधीष्टे च प्रत्ययः परः च आद्युदात्तः च धातोः कृत् स्मे लोट्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

स्म इति वर्तते। अधीष्टं व्याख्यातम् ३.३.१६१। स्मशब्द उपपदेऽधीष्टे गम्यमाने धातोर्लोट् प्रत्ययो भवति। लिङोऽपवादः। अङ्ग स्म राजन् माणवकमध्यापय। अङ्ग स्म राजन्नग्निहोत्रं जुहुधि॥

Siddhanta Kaumudi

Up

स्म उपपदेऽधीष्टे लोट् स्यात् । त्वं स्म अध्यापय ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<अधीष्टे च>> - अधीष्टे च । लोट् स्यादिति । अधीष्टे विहितस्य लिङोऽपवादः । अधीष्टं सत्कारपूर्वको व्यापार इत्युक्तम् । त्वं स्माध्यापयेति गुरुं प्रत्युक्तिः ।स्मे लोडधीष्टेचे॑त्येकसूत्रत्वेन सिद्धए योगविभागस्तु ऊध्र्वमौहूर्तिक इत्यनुवृत्तिनिवृत्त्यर्थः ।कालसमयेलासु तुमु॑न्नित्युत्तरसूत्रं तु कृदधिकारे व्याख्यास्यते ।

Padamanjari

Up

अङ्ग स्म राजन्निति । अङ्गशब्दोऽनुनये । ब्राह्मणानामेवाध्यापनं वृत्तिरतो राजन्नित्यभ्यर्हितेत्यर्थः ॥