स्मे लोट्

3-3-165 स्मे लोट् प्रत्ययः परः च आद्युदात्तः च धातोः कृत् प्रैषातिसर्गप्राप्तकालेषु च ऊर्ध्वमौहूर्तिके

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

प्रैषादिषूर्ध्वमौहूर्तिक इति वर्तते। स्मशब्द उपपदे प्रैषादिषु गम्यमानेषूर्ध्वमौहूर्तिकेऽर्थे वर्तमानाद् धातोर्लोट् प्रत्ययो भवति। लिङ्कृत्यानामपवादः। ऊर्ध्वं मुहूर्ताद् भवान् कटं करोतु स्म, ग्रामं गच्छतु स्म, माणवकमध्यापयतु स्म॥

Siddhanta Kaumudi

Up

पूर्वसूत्रस्य विषये । लिङः कृत्यानां चापवादः । ऊर्ध्वं मुहूर्ताद् यजतां स्म ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<स्मे लोट्>> - स्मे लोट् । पूर्वसूत्रेति । तथा च मुहूर्तादुपरितनकाले प्रैषातिसर्गप्राप्तकालेषु लोडेव स्यान्नतु लिह् कृत्याश्चेत्यर्थः । तदाह — लिङः कृत्यानां चापवाद इति ।

Padamanjari

Up

लिङ्कृत्यानामपवाद इति । अनन्तरसूत्रेण प्राप्तानाम् । करोतुस्मेति । स्मशब्दोऽधिकारं सूचयति - भवानत्राधिकृत इत्यर्थः ॥