3-3-159 लिङ् च प्रत्ययः परः च आद्युदात्तः च धातोः कृत् इच्छार्थेषु समानकर्तृकेषु
इच्छार्थेषु समानकर्तृकेषु धातुषूपपदेषु धातोर्लिङ् प्रत्ययो भवति। भुञ्जीयेतीच्छति। अधीयीयेतीच्छति। क्रियातिपत्तौ लृङ् भवति। योगविभागः उत्तरार्थः॥
समानकर्तृकेषु इच्छार्थेषूपपदेषु लिङ् । भुञ्जीयेतीच्छति ॥
<<लिङ् यदि>> - लिङ्यदि । कालसमयवेलास्वत्यनुवर्तते । सर्वलकारापवादः, तुमुनपवादश्च । भुञ्जीत भवानिति यत्तस्यकालः समयो वेला वेत्यन्वयः ।
किमर्थमिदमुच्यते ? लिङ् यथा स्यात् । सिद्धोऽत्र लिङ् ठिच्छार्थेषु लिङ्लोटौऽ इति ? तस्य समानकर्तृकेषु तुमुन् बाधकः प्राप्तः । वासरूपविधिश्च क्तल्युट्तुमुन्खलर्थेषु प्रतिषिद्धस्तत्र यथा लोण्न भवति एवं लिङपि नस्यात् । अथापि वासरूपविधिः स्याद् ? एवमपि लिणेóव यथा स्याल्लोण्माभूदित्येवमर्थमेतदारब्धव्यमेव ॥