समानकर्तृकेषु तुमुन्

3-3-158 समानकर्तृकेषु तुमुन् प्रत्ययः परः च आद्युदात्तः च धातोः कृत् इच्छार्थेषु

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

इच्छार्थेषु धातुषु समानकर्तृकेषूपपदेषु धातोस्तुमुन् प्रत्ययो भवति। तुमुन्प्रकृत्यपेक्षमेव समानकर्तृकत्वम्। इच्छति भोक्तुम्। कामयते भोक्तुम्। वष्टि भोक्तुम्। वाञ्छति भोक्तुम्। समानकर्तृकेष्विति किम्? देवदत्तं भुञ्जानमिच्छति यज्ञदत्तः। इह कस्माद् न भवति — इच्छन् करोति? अनभिधानात्॥

Siddhanta Kaumudi

Up

अक्रियार्थोपपदार्थमेतत् । इच्छार्थेष्वेककर्तृकेषूपपदेषु धातोस्तुमुन् स्यात् । इच्छति भोक्तुम् । वष्टि वाञ्छति वा ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

तुमुन्प्रकृत्यपेक्षमिति । तुमुन्प्रकृतौ यः कर्ता स चेदिच्छार्थेष्वपि भवतीति, एतच्च सान्निध्याल्लभ्यते । इच्छति भोक्तुमिति । आत्मनो भोजनमिच्छतीत्यर्थः । य एवेषेः कर्ता स एव भुजेरपीत्यस्तीह समानकर्तृकत्वम् । इच्छाया भुजिक्रियां प्रति तादर्थ्यस्याप्रतीतेः'तुमुन्ण्वुलौ' इत्यादिना तुमुन् न सिद्ध्यतीत्ययमारम्भः । अथापि कथञ्चितादर्थ्यं स्यात्, एवमपि समानकर्तृकेष्विति वक्ष्यामीत्यायमारम्भः, तेन देवदतेन भोक्तुमिच्छति यज्ञदत इति न भवति । इच्छन्करोतीति । अत्रार्थे इच्छन्कर्तुमिति न भवतीत्यर्थः । इच्छन्कर्तुं गच्छतीत्यादौ'तुमुन्ण्वुलौ' इत्यादिना तुमुन् । ननु भावे तुमुन् विधीयते, तत्कथमिच्छन्करोतीत्यत्र कर्तरि प्रसङ्गः ? एवमपीच्छता क्रियते इत्यत्र प्रसङ्गादनभिधानमेवाश्रयणीयम् ॥