3-3-157 इच्छार्थेषु लिङ्लोटौ प्रत्ययः परः च आद्युदात्तः च धातोः कृत्
index: 3.3.157 sutra: इच्छार्थेषु लिङ्लोटौ
इच्छार्थेषु धातुषु उपपदेषु धातोः लिङ्लोटौ प्रत्ययौ भवतः। सर्वलकाराणामपवादः। इच्छामि भुञ्जीत भवान्। इच्छामि भुङ्क्ताम् भवान्। कामये। प्रार्थये। कामप्रवेदन इति वक्तव्यम्। इह मा भूत्, इच्छन् करोति।
index: 3.3.157 sutra: इच्छार्थेषु लिङ्लोटौ
इच्छामि भुञ्जीत भुङ्क्तां वा भवान् । एवं कामये प्रार्थये इत्यादियोगे बोध्यम् ।<!कामप्रवेदन इति वक्तव्यम् !> (वार्तिकम्) ॥ नेह । इच्छन् करोति ॥
index: 3.3.157 sutra: इच्छार्थेषु लिङ्लोटौ
इच्छार्थेषु लिङ्लोटौ - इच्छार्थेषु लिङ्लोटौ । इच्छार्थकधातुषु प्रयुज्यमानेषु लिङ्लोटौ स्तः । सर्वलकारापवादः । असमानकर्तृकविषयमिदम् । समानकर्तृकेषु तुलिङ् चे॑ति वक्ष्यते । इच्छामिति । भुञ्जीत भवानिति इच्छामीत्यन्वयः । कामप्रवेदने इति । परं प्रति स्वाभिप्रायाविष्करणेइच्छार्थेषु लिङ्लोटा॑विति विधिरित्यर्थः । इच्छन्करोतीति । परं प्रति स्वाभिप्रायाविष्करणाऽभावान्न लिङ्लोटाविति भाव- ।कामप्रवेदनेऽकच्चिती॑ति सूत्रं तु प्रकरणादिना यत्र कामप्रवेदनं, नत्विच्छार्थकमुपपदमस्ति तद्विषयमिति बोध्यम् । इत उत्तरसूत्रंसमानकर्तृकेषु तुमु॑न्निति तु कृदधिकारे व्याख्यास्यते ।
index: 3.3.157 sutra: इच्छार्थेषु लिङ्लोटौ
कामप्रवेदन इति वक्तव्यमिति ।'कामप्रवेदने' कच्चिति इत्ययं तर्हि योगः किमर्थः, यावता कामो मे भुञ्जीत भवान्, अभिलाषो मे भुञ्जीत भवानित्यत्राप्यनेनैव सिद्धम् ? यत्रेच्छार्थमुपपदं न भवति, अर्थप्रकरणादिना तु कामप्रवेदनं गम्यते, तत्रापि लिङ् यथा स्यात् । इदं तर्हि किमर्थम् ? लोर्ड्थम्, लिङ्ग्रहणं तु लोटा बाधा मा भूदिति । एवमपि'लेट् च' इति वक्तव्ये किं लिङ्ग्रहणेन ? प्रकृतं लिङ्ग्रहणं विभाषासम्बन्धम्, अतस्तदनुकर्षणे विभाषाग्रहणस्याप्यनुकर्षणं सम्भाव्येत ॥